तैलाभ्यंगादिभिर्यत्नैर्बहुभिः पाल्यते न चेत्
एवमेतेन देहेन किं कृत्यं भोजनोत्तमैः
भवंति चात्र श्लोकाः कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते
तस्मात्सदा शुभं कार्यमविच्छिन्नसुखार्थिभिः
यस्मात्पापेन दुःखानि तीव्राणि सुबहून्यपि
एवं ते वर्णितः साधो प्रश्नोऽयं शक्तितो मया
आयुष्ये कर्मणि क्षीणे संप्राप्ते मरणे नृणाम्
पंचतन्मात्रसहितः समनोबुद्ध्यहंकृतिः 1.2.50.
शीर्ष्णश्च सप्तभिश्छिद्रैर्निर्गच्छेत्पुण्यकर्मणाम्
तत्क्षणात्सोऽथ गृह्णाति शारीरं चातिवाहिकम्
ततस्तस्मिन्स्थितं जीवं देहे यमभटास्तदा
तप्तांबरीषतुल्येन अयोगुडनिभेन च
षडशीतिसहस्राणि योजनानां महीतलात्
क्वचिच्छीतं महादुर्गमन्धकारं क्वचिन्महत्।। अग्निसंस्पर्शवदनैः काककाकोलजंबुकैः
मक्षिकादंशमशकैर्भक्ष्यते सर्पवृश्चिकैः
क्वचिच्च भक्ष्यते घोरै राक्षसैः कृष्यतेऽस्यते
मुहूतैर्दशभिर्याति तं मार्गमतिदुस्तरम्
तार्यते च नदीं घोरां पूयशोणितवाहिनीम् 1.2.50.
ततो यमस्य पुरतः स्थाप्यते यमकिंकरैः
पुण्यकर्मा सौम्यरूपं धर्मराजं तदा किल
मरणानंतरं तेषां जंतूनां योनिपूरणम्
धार्मिकः पूज्यते तत्र पापः पाशगलो भवेत्
आरामद्रुमदातारः फलपुष्पवता पथा
उपानहप्रदा यानैर्वितृषाः पूर्तधर्मिणः
भक्ष्यभोज्यैस्तथा तृप्ता यांति भोजनदायिन
श्रीसूर्यं श्रीमहादेवं भक्ता ये पुरुषोत्तमम्
महीं गां कांचनं लोहं तिलान्कार्पासमेव च
तेषां तत्र गतानां च पापिनां पुण्यकर्मिणाम् 1.2.50.
प्रेतलोके स वसति ततः संवत्सरं नरः
सोदकुम्भमथान्नाद्यं बांधवैर्यत्प्रदीयते