स्तूयते वीतगर्वत्वात्स इदानीं महेश्वरः
अद्याप्यवीतगर्वत्वाल्लब्ध्वासौ कूटसाक्षिणम्
तदद्य सकलस्यापि दुःखस्यापनये क्षमः
तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः
जय प्रभाकराकार जयामृतकराकृते
जय वैश्वानराकार जय गन्धवहाकृते
रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह 1.3.2.14.
स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम्
अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि
निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम्
अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः
स्वर्गस्त्वमपवर्गस्त्वं त्वमोंकारस्त्वमध्वरः
त्वमादिर्मध्यमंतश्च तस्थुषां जग्मुषामपि
परेशः परतः शास्ता सर्वानुग्राहकः शिवः
यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात्
तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः
तमेव तैजसं स्तंभं प्रणम्य परमेश्वरम् हठात्तेन विरंचेन वार्यमाणोपि सस्मितम् ।। 1.3.2.14.
कालांतक क्रतुध्वंसिन्नीलकंठेंदुशेखर
जय शंभो शिवेशान शर्व त्र्यंबक धूर्जटे
जयेश खंडपरशो शूलिन्पशुपते हर
जय रुद्र मखाराते पिनाकिन्प्रमथाधिप
जय भीम मृगव्याध कृत्तिवासः कृपानिधे
त्वदाज्ञया मरुद्राति फणी वहति भूभरम्
ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी
अणिमादिमहासिद्धिनिःसाधारणवैभवः
विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च 1.3.2.14.
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम्
इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान्