नाभिर्मेदो यकृन्मज्जा अंत्रमामाशयः शिरा
नेत्रयोर्मडलं शुक्लं कफाद्भवति पैतृकम्
पक्ष्ममण्डलमेकं तु द्वितीयं चर्ममण्डलम्
दृङ्मण्डलं पंचमं तु नेत्रं स्यात्पंचमण्डलम्
उपांगो नेत्रपर्यंतो नासा मूलमपांगकः
असृङ्मांसमयी जिह्वा सर्वेषामेव देहिनाम्
एवमत्र स्थिते जीवो देहेऽस्मिन्सप्तसप्तके
त्वगसृग्मांसमित्याहुस्त्रिकं मातृसमुद्भवम् 1.2.50.
एवं भूतमयं देहं पंचभूतसमुद्भवैः
तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहिभिः
संप्रविश्यान्नमध्ये तु पृथगन्नपृथग्जलम्
जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः
तदन्नमुष्णतोयेन समंतात्पच्यते पुनः
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत्
रोमकूपाणि चैव स्युर्द्वादशैते मलाश्रयाः
तासां मुखेषु तं सूक्ष्मं व्यानः स्थापयते रसम्
ततः प्रयांति संपूर्णास्ताश्च देहं समंततः
पच्यते पच्यमानस्तु रुधिरत्वं भजेत्पुनः 1.2.50.
नखा मज्जा खवैमल्यं शुक्रवृद्धिः क्रमाद्भवेत्
एवमेतद्विनिष्पन्नं शरीरं पुण्यहेतवे
तैलाभ्यंगादिभिर्यत्नैर्बहुभिः पाल्यते न चेत्
एवमेतेन देहेन किं कृत्यं भोजनोत्तमैः
भवंति चात्र श्लोकाः कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते
तस्मात्सदा शुभं कार्यमविच्छिन्नसुखार्थिभिः
यस्मात्पापेन दुःखानि तीव्राणि सुबहून्यपि
एवं ते वर्णितः साधो प्रश्नोऽयं शक्तितो मया
आयुष्ये कर्मणि क्षीणे संप्राप्ते मरणे नृणाम्
पंचतन्मात्रसहितः समनोबुद्ध्यहंकृतिः 1.2.50.
शीर्ष्णश्च सप्तभिश्छिद्रैर्निर्गच्छेत्पुण्यकर्मणाम्
तत्क्षणात्सोऽथ गृह्णाति शारीरं चातिवाहिकम्