तलातलं तथा गुल्फौ जंघे चास्य महातलम्
नाभिं महीतलं प्राहुर्भुवर्लोकमथोदरम्
नेत्रे तपः सत्यलोकं शीर्षदेशं वदंति च
तथात्र धातवः सप्त नामतस्तान्निबोध मे
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि च
षट्पंचाशत्सहस्राणि तथान्यानि नवैव तु
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः
षडंगानि प्रधानानि कथ्यमानानि मे शृणु 1.2.50.
अंत्राण्यत्र तथा त्रीणि सार्धव्यामत्रयाणि च
ऊर्ध्वनालमधोवक्त्रं हृदि पद्मं प्रकीर्त्यते
मज्जातो मेदसश्चैव वसायाश्च तथा द्विज
रक्तस्य चरमस्यात्र गर्ता द्व्यंजलयः स्मृताः
सीवन्यश्च तथा सप्त पंच मूर्धानमास्थिताः
नाड्यः सर्वाः प्रवर्तंते नाभिपद्मात्तथात्र च
नासिकाद्वारमासाद्य संस्थिते देहवर्धने
प्राणापानसमानाश्च उदानो व्यान एव च
उच्छ्वासश्चैव निःश्वासो ह्यन्नपानप्रवेशनम्
त्यागो विण्मूत्रशुक्राणां गर्भविस्रवणं तथा 1.2.50.
समानो धारयत्यन्नं विवेचयति चाप्यथ
वाक्प्रवृत्तिप्रदोद्गारे प्रयत्ने सर्वकर्मणाम्
व्यानो हृदि स्थितो नित्यं तथा देहचरोपि च
पाचको रजकश्चैव साधकालोचकौ तथा
पाचकस्तु पचत्यन्नं नित्यं पक्वाशये स्थित.
साधको हृदिसंस्थश्च बुद्ध्याद्युत्साहकारकः
त्वक्संस्थो भ्राजको देहं भ्राजयेन्निर्मलीकृतः
आलंबकस्तथा देहे पंचधा सोम उच्यते
बोधको रसनास्थश्च रसानामवबोधकः
सर्वसंधिगतश्चैव श्लेष्मणः श्लेष्मकृत्तथा 1.2.50.
एवं वाय्वग्निसोमैश्च देहः संधारितस्त्वसौ
पार्थिवानीह जानीहि घ्राणकेशनखानि च