मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा
यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः
अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत्
व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम्
सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते
संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः
जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा
एवं तु चिंतयानस्य सीमंतोन्नयनादनु
ततः स्वकाले संपूर्णे सूतिमारुतचालितः ।।1.2.49.
अधोमुखः संकटेन योनिद्वारेण निःसरेत्
करपत्रसमस्पर्शं करसंस्पर्शनादिकम्
प्राक्कर्मवशगस्यास्य गर्भज्ञानं च नश्यति
अस्थिपट्टतुलास्तंभस्नायुबंधेन यंत्रितम्
सप्तभित्तिसुसंबद्धं छन्नं रोम तृणैरपि
ओष्ठद्वयकपाटं च दंतार्गलविमुद्रितम्
जराशोकसमाविष्टं कालवक्त्रानलस्थितम्
एवं संजायते पुंसो देहगेहमिदं द्विज
मोक्षं स्वर्गं च नरकमास्ते संसाधयन्नपि
शरीरलक्षणं श्रोतुं पुनरिच्छामि तद्वद
पादमूलं च पातालं प्रपदं च रसातलम्
तलातलं तथा गुल्फौ जंघे चास्य महातलम्
नाभिं महीतलं प्राहुर्भुवर्लोकमथोदरम्
नेत्रे तपः सत्यलोकं शीर्षदेशं वदंति च
तथात्र धातवः सप्त नामतस्तान्निबोध मे
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि च
षट्पंचाशत्सहस्राणि तथान्यानि नवैव तु
सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः
षडंगानि प्रधानानि कथ्यमानानि मे शृणु 1.2.50.
अंत्राण्यत्र तथा त्रीणि सार्धव्यामत्रयाणि च
ऊर्ध्वनालमधोवक्त्रं हृदि पद्मं प्रकीर्त्यते