ततो नानाप्रकारस्य धर्मस्य श्रवणं हि यत्
तद्दास्यामि द्विजाग्र्याय पृच्छ विप्र यदिच्छसि
मनसैव प्रशस्यामुं प्रश्नमेनमथाकरोत्
कथं संजायते जंतुः कथं चापि प्रलीयते
छंदोगीतममुं प्रश्नं शक्त्या वक्ष्यामि ते द्विज
जनने त्रिविधं कर्म हेतुर्जंतोर्भवेत्किल
तत्र यः सात्त्विको नाम स स्वर्गं प्रतिपद्यते
तथा यस्तामसो नाम नरकं प्रतिपद्यते
महतां दर्शनस्पर्शैरुपभोगसहासनैः 1.2.49.
सोऽपि दुःखदरिद्राद्यैर्वेष्टितो विकलेंद्रियः
अथ यो मिश्रकर्मा स्यात्तिर्यक्त्वं प्रतिपद्यते
यस्य पुण्यं पृथुतरं पापमल्पं हि जायते
पापं पृथुतरं यस्य पुण्यमल्पतरं भवेत्
तत्र मानुषसंभूतिं शृणु यादृगसौ भवेत्
सर्वदोषविनिर्मुक्तो जीवः संसरते स्फुटम्
जीवः प्रविष्टो गर्भं तु कलले प्रतितिष्ठति
द्वितीयं तु तथा मासं घनीभूतः स तिष्ठति
अस्थीनि च तथा मासि जायंते च चतुर्थके
सप्तमे च तथा मासि प्रबोधश्चास्य जायते 1.2.49.
अष्टमे नवमे मासि भृशमुद्विजते ततः
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा
यस्यां तिष्ठत्यसौ योनौ तां च वेत्ति न संशयः
अंधे तमसि किं दृश्यो गंधान्मोहं दृढं लभेत्
व्यायामे लभते मातुः क्लेशं व्याधेश्च वेदनाम्
सौकुमार्याद्रुजं तीव्रां जनयंति च तस्य ते
संतप्यते भृशं गर्भे कर्मभिश्च पुरातनैः
जन्म चेदहमाप्स्यामि मानुष्ये जीवितं तथा
एवं तु चिंतयानस्य सीमंतोन्नयनादनु
ततः स्वकाले संपूर्णे सूतिमारुतचालितः ।।1.2.49.
अधोमुखः संकटेन योनिद्वारेण निःसरेत्