श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः
महीनगरकस्यापि स्थापितस्य त्वया मुने
तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः
जयादित्यस्य यो नाम कीर्तयेदिह मानवः
यस्य संदर्शनादेव कल्याणैरपि पूर्यते
तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते
अहं संस्थाप्य संस्थानमेतत्कालेन केनचित्
स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः
कुत आगम्यते विप्र क्व च वा प्रतिगम्यते
भारते विहृतः खण्डे महीनगरकादपि 1.2.49.
तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः
यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता
अथवा पारमाहात्म्ये सति तेषां महात्मनाम्
मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता
इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः
सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः
जटां त्रिषवणस्नानपिंगलां धारयन्नथ
ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः
नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन् ।।1.2.49.
अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम्
धन्यस्य हि गृहस्थस्य कृपयैव द्विजोत्तमाः
तत्त्वं गेहानि चास्माकं पादचंक्रमणेन च
तदहं सम्यगिच्छामि दत्तं परमभोजनम्
इत्येतदतिथेः श्रुत्वा हारीतः पुत्रमब्रवीत्
द्विजं च तर्पयिष्यामि दत्त्वा परमभोजनम्
सुतेन किल जातेन जायते चानृणः पिता
भोजनं द्विप्रकारं च प्रविभागस्तयोरयम्
तत्र यत्प्राकृतं नाम प्रकृतिप्रमुखस्य तत्
षड्रसं भोजनं तच्च पंचभेदं वदंति च 1.2.49.
यथापरं परंनाम प्रोक्तं परमभोजनम्