महीनगरके लिंगं पातालात्सुमनोहरम्
नमस्ते भगवन्रुद्र भास्करामिततेजसे
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः
पशूनां पतये चापि पावकायातितेजसे
महादेवाय सोमाय अमृताय नमोऽस्तु ते
इत्येवं नामभिर्दिव्यैः स्तव एष उदीरितः
हाटकेश्वरलिंगस्य नित्यं च प्रयतो नरः
हाटकेश्वरलिंगं च प्रयतो यः स्मरेदपि
एवंविधानि तीर्थानि महीसागरसंगमे
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भतीर्थमाहात्म्ये सोमनाथवृत्तांतवर्णनंनामाष्टचत्वारिंशोऽध्यायः
श्रुत्वा तव मुखांभोजाद्भृशं मे हृष्यते मनः
महीनगरकस्यापि स्थापितस्य त्वया मुने
तानि वक्ष्यामि यत्रास्ते जया दित्यो रविः प्रभुः
जयादित्यस्य यो नाम कीर्तयेदिह मानवः
यस्य संदर्शनादेव कल्याणैरपि पूर्यते
तस्य देवस्य चोत्पत्तिं शृणु पार्थ वदामि ते
अहं संस्थाप्य संस्थानमेतत्कालेन केनचित्
स मां प्रणतमासीनमभ्यर्च्यार्घेण भास्करः
कुत आगम्यते विप्र क्व च वा प्रतिगम्यते
भारते विहृतः खण्डे महीनगरकादपि 1.2.49.
तेषां गुणान्मम ब्रूहि किंगुणा ननु ते द्विजाः
यदि तान्भोः प्रशंसामि स्वीयान्स्तौतीति वाच्यता
अथवा पारमाहात्म्ये सति तेषां महात्मनाम्
मदर्चितद्विजेंद्राणां यदि स्याच्छ्रवणेप्सुता
इति श्रुत्वा मम वचो रविरासीत्सुविस्मितः
सोऽथ विप्रतनुं कृत्वा मां विसर्ज्यैव भास्करः
जटां त्रिषवणस्नानपिंगलां धारयन्नथ
ततो हारीतप्रमुखाः प्रहर्षोत्फुल्ललोचनाः
नमस्कृत्य द्विजाग्र्यं ते प्रहर्षादिदमब्रुवन् ।।1.2.49.
अद्य नो दिवसः पुण्यः स्थानमद्योत्तमं त्विदम्