एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे
मयूरं समुपास्थाय गुहशक्तिः समागता
जघान च समासाद्य देवी नानाविधायुधैः
प्रसादयंति तां देवीं नानावेषैः सुदीनवत्
नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः
तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि
ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ।। 1.2.47.
अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः
एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता
य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते
एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः
शृण्वन्यां कीर्त यिष्यामि पापमोक्षमवाप्नुयात्
पुरा त्रेतायुगे पार्थ चौडदेशसमुद्भवौ
तावेकदा पुराणार्थे श्लोकमेकमपश्यताम्
प्रभासाद्यानि तीर्थानि पुलस्त्यायाह पद्मभूः । न यैस्तत्राप्लुतं चैव किं तैस्तीर्थमुपासितम्
इति श्लोकं पठित्वा तौ पुनःपुनरभिष्टुतम्
तौ वनानि नदीश्चैव व्यतिक्रम्य शनैःशनैः
गुप्तक्षेत्रस्य माहात्म्यं महीसागरसंगमम्
ततो मार्गस्य शून्यत्वात्तृट्क्षुधापीडितौ भृशम्
सिद्धनाथं नमस्कृत्य संप्रयातौ सुधैर्यतः
सहसा पतितौ भूमौ स्थूणपादौ विमूर्छितौ 1.2.48.
किंचिद्विश्वस्य धैर्याच्च सखे किं न श्रुतं त्वया
तथातथा भवेद्दानैर्दीनः सोमेश्वरो हरः
लुंठमानो जगामैव प्रालेयः किंचिदंतरे
खे वाणी चाभवत्तत्र पुष्पवर्षपुरःसरा उत्थितं सागरतटे लिंगं तिष्ठात्र सुव्रत
प्रभासाय प्रयातव्यं यदाऽऽ मृत्योर्मया स्फुटम्
अपश्यदुत्थितं लिंगं स चैवं प्रत्यपद्यत
दृष्ट्या तनू ततो यातौ प्रभासं शिवसद्म च
ऊर्जयंतः प्रतीच्यां च प्रालेयस्येश्वरोऽपरः
सोमनाथद्वयं पश्येज्जन्मपापात्प्रमुच्यते 1.2.48.