एषा तृप्यति भक्तानां प्रणामेनापि भारत
कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम्
हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत
यश्च पूजयते देवीं स्वल्पेन बहुनापि वा
एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः
आश्विनस्य च मासस्य नवरात्रे विशेषतः
बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः
भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् 1.2.47.
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात्
आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया
कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा
तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे
पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे
स च सर्वाणि भूतानि मर्यादायामधारयत्
यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम्
ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः
पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः
स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् 1.2.47.
ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम्
मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः
एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे
मयूरं समुपास्थाय गुहशक्तिः समागता
जघान च समासाद्य देवी नानाविधायुधैः
प्रसादयंति तां देवीं नानावेषैः सुदीनवत्
नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः
तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि
ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा ।। 1.2.47.
अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः
एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता
य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते