तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा
तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता । यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः
एवमेताः पश्चिमायामुत्तरस्यामतः शृणु
एकवीरेति या देवी साक्षात्सा शिवपूजिता
वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात्
एवंविधा त्वेकवीरा शक्तिरेषा सनातनी
ब्रह्मलोकात्समानीता मयाराध्यात्र भारत
द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला 1.2.47.
यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च
तदा मंत्रप्रभावेण मोहिता गिरिजा सती
ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी
सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च
ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते
एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम्
तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः
तृतीयेशानकोणस्था चंडिका नवमी स्थिता
या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ
अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ 1.2.47.
इयमेवांधकानां च तृषिता शोणितं पुनः
इयं च रक्तबीजानां कृत्वा पानं च रक्तजम्
एषा तृप्यति भक्तानां प्रणामेनापि भारत
कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम्
हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत
यश्च पूजयते देवीं स्वल्पेन बहुनापि वा
एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः
आश्विनस्य च मासस्य नवरात्रे विशेषतः
बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः
भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् 1.2.47.
पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात्
आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया