ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः
त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा
त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः
सा चाराध्य समानीता मयामरेश्वरपर्वतात्
अपरा चापि कोलंबा महाशक्तिः सनातनी
तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता
वाराहगिरिसंस्था मां समानीता च साब्रवीत्
तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै 1.2.47.
तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज
कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ
पूजिता च ततो दैवी कोलंबा जगदीश्वरी
सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया
पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम्
मेरोः समीपे रुद्राण्याः कूप एष स एव च
प्रयागादपि गंगाया गयायाश्च विशेषतः
तदहं तव वाक्येन संस्थितात्र तपोधन
कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम्
प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम् ।। 1.2.47.
अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम्
इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति
एवं दीर्घं तपस्तप्त्वा स्थापिता मयका शुभा
तृतीया च दिशि तस्यां स्थिता संस्थापिता मया
धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः
एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः
सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी
ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः
अपरा च महादुर्गा चर्चिता चेति संस्थिता । रसातलतलात्तत्र मयानीता सुभक्तितः
इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः 1.2.47.
इयमेव महादुर्गा शूद्रकं वीरसत्तमम् । चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात्
ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति