नंदभद्रो ऽप्यथान्यस्यां भार्यायामपरान्सुतान् ४६.
रुद्रदेहं ययौ पार्थ पुनरावृत्तिदुर्लभम् ४६.
अस्य तीरे स्वमंशं च वल्लीनाथः प्रमेक्ष्यति ४६.
अर्चयित्वा च तं देवं योगसिद्धिमवाप्नुयात् ४६.
पश्चिमायां बुधसुतस्तथा क्षेत्रं स भारत ४६.
सर्वकामप्रदश्चासौ भट्टदित्यसमो रिवः ४६.
अस्य तीर्थस्य माहात्म्यं जप्तव्यं कर्णमूलके ४६.
श्रृणोतीदं श्रद्धया यस्तस्य तुष्येश्च भास्करः ४६.
समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः
यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः
शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः
बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा
इयमेव च बंधाय मोक्षायेयं च सर्वदा
ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः
वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः
तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा
परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता
चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः 1.2.47.
जगदादौ मूलूप्रकृतेरुत्पन्ना सा प्रकीर्त्यते
दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया
ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः
कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः
कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा
पश्चिमायां तथा देवी संस्थिता भास्करा शुभा
बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम्
मयाराध्य समानीता कटाहादत्र संस्थिता
उत्तरस्यां तथा देवी संस्थिता योगनंदिनी
दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः 1.2.47.
सैव चांडकटाहान्मे समाराध्यात्र प्रापिता
एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा