यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च ४६.
सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते ४६.
यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम् ४६.
आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः ४६.
सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान् ४६.
यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति ४६.
तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः ४६.
कीटोहमभवं पश्चात्तीरे सारस्वते शुभे ४६.
आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम् ४६.
मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम् ४६.
स मामपश्यत्त्रस्तं च कृपया संयुतो मुनिः ४६.
विप्रजन्मनि तस्यैव प्रभावाद्व्याससंगमः ४६.
किमेवं नश्यसे कीट कस्मान्मृत्योर्बिभेषि च ४६.
इत्युक्तो मतिमान्पूर्वपुण्याद्व्यासं तदोचिवान् ४६.
एतदेव भयं मान्य गच्छेयमधमां गतिम् ४६.
तासु गर्भादिकक्लेशभीतस्त्रस्तोऽस्मि नान्यथा॥ ४६.
मा भयं कुरु सर्वाभ्यो योनिभ्यश्च चिरादिव ४६.
इत्युक्तोहं कालियेन तं प्रणम्य जगद्गुरुम् ४६.
ततः काकश्रृगालादियोनिष्वस्मि यदाऽभवम् ४६.
ततो बहुविधा योनीः परिक्रम्यास्मि कर्षितः ४६.
ततो जन्मप्रभृत्यस्मि पितृभ्यां परिवर्जितः ४६.
ततो मां पंचमे वर्षे व्यास आगत्य जप्तवान् ४६.
अनधीतानि शास्त्राणि वेदान्धर्मांश्च कृत्स्नशः तत्र त्वं नंदभद्रं च आश्वासयमहामतिम्॥ ४६.
त्यत्क्वा बहूदके प्राणानस्थिक्षेपं महीजले ४६.
गमिष्यसि ततो मोक्षमिति मां व्यास उक्तवान् ४६.
इति ते कथितं सर्वमात्मनश्चरितं मया ४६.
अहो महाद्भुतं तुभ्यं चरितं येन मे हृदि ४६.
किं तु त्वयोक्तधर्मस्य कर्तुकामोस्मि निष्कृतिम् ४६.
अत्र तीर्थे च सप्ताहं निराहारस्त्वहं स्थितः ४६.
ततो बर्करिकातीर्थे दग्धव्योहं त्वया तटे ४६.