यदेष रोदःकुहरपरिणाहाधिकोद्यमः
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति
केतकच्छद एवासं सचैतन्यः शिवाज्ञया
भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम्
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः 1.3.2.12.
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः
चतुर्युगायुतैर्यातं ततो निपततो मम
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः
ब्रह्मोवाच ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम्
ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम्
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् 1.3.2.13.
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम्
तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः
यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान्
त्वयैव परिहार्यत्वमिदानीं समुपागतम्
गिरमेकामिमामग्रे चक्रपाणेरुदीरय
अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम्
संभावितोयं सुतरां पित्रेव हि पितामहः
इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया ।। 1.3.2.13.
तेजःस्तंभाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम्
नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान्
अनुग्रहीतुं मां मुग्धं हंतुं चास्य विधेर्मदम्
मूलसंदर्शनाशक्त्या तेजःस्तंम्भस्य मे मदः