यत्पुण्यं परमं प्रोक्तं सततं यज्ञयाजिनाम् तत्पुण्यं लभते विप्र सहस्राब्दस्य जीविभिः
सर्वसौख्यप्रदं तादृक्पुण्यव्रतमिहोच्यते
चतुर्दश्यां शुचिः स्नात्वा दन्तधावनपूर्वकम् पौर्णमास्यां तथा कृत्वा चंद्रपूजां च कारयेत् ।। 2.8.3.
पूर्वं च मातरः पूज्या गौर्यादिकक्रमेण च
प्रयतैः प्रतिमा कार्या चंद्रमंडलसन्निभा निजवित्तानुमानेन तदर्धेन तदर्द्धिकम्
ततः श्रद्धानुमानाद्वा कार्या वित्तानुमानतः
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः
सोममंत्रेण होमस्तु कार्यो वित्तानुमानतः
सोमोत्पत्तिं सोमसूक्तं पाठयेच्च प्रयत्नतः
चंद्रन्यासं कलान्यासं कारयेन्मंडले जलम्
चंद्रबिंबनिभं कार्य्यं मंडलं शुभतंडुलैः
चतुरस्रेषु संपूर्णान्कलशान्स्थापयेद्बहिः
चंद्राय विधवे नित्यं नमः कुमुदबंधवे ।। 2.8.3.
सुधांशवे च सोमाय ओषधीशाय वै नमः
नमो नक्षत्रनाथाय शर्वरीपतये नमः
एवं षोडशभिश्चंद्रः स्तोतव्यो नामभिः क्रमात्
ततो वै प्रयतो दद्याद्विधिवन्मंत्रपूर्वकम्
नमस्ते मासमासांते जायमान पुनःपुनः
एवं संपूज्य विधिवच्छशिनं प्रणतो भवेत्
सवस्त्राच्छादनाः शांत्यै दातव्यास्ते द्विजन्मने
ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः
पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदंपती
प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः दातव्यं चंद्रसुप्रीत्यै हर्षादेवं द्विजन्मने ।। 2.8.3.
उपवासविधानेन दिनशेषं नयेत्सुधीः बांधवैः सह भुञ्जीत नियमं च विसर्ज्जयेत्
एवं च कुरुते चंद्रसहस्रं व्रतमुत्तमम् व्रतेनानेन शुद्धात्मा चंद्रलोकं व्रजेन्नरः
यादृशश्च भवेद्विप्र प्रियो नारायणस्य च
देवो धर्महरिर्न्नाम कलिकल्मषनाशकः
वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः
आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः
विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः