स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम् ४६.
भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः ४६.
शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा ४६.
व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु ४६.
किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः ४६.
भुक्त्वा पुण्यफलं याति नरकं संशयः ४६.
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ४६.
पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि ४६.
पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि ४६.
पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत् ४६.
इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः ४६.
योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति ४६.
नमस्तुभ्यमबालाय बालरूपाय धीमते ४६.
बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा ४६.
येन मे जन्मसंदेहा नाशिता लीलयैव च ४६.
महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः ४६.
वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः ४६.
व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः ४६.
स्वयं चातिदुराचारः पापिनामपि पापराट् ४६.
असत्यभाषी दम्भीच सदा धर्मध्वजी खलः ४६.
यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च ४६.
सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते ४६.
यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम् ४६.
आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः ४६.
सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान् ४६.
यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति ४६.
तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः ४६.
कीटोहमभवं पश्चात्तीरे सारस्वते शुभे ४६.
आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम् ४६.
मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम् ४६.