अशुचिर्देवताश्चैव यदा पूजयते नरः ४६.
विमूढश्चाप्टयकार्याणि तानि तानि निषेवते शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्॥ ४६.
तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते ४६.
सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम् ४६.
सीतापहारमापेदे रामोऽन्यो मुच्यते कथम् ४६.
इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम् ४६.
मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः ४६.
बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना ४६.
ये तप्यंते गतैः पापैः शुचयो देवताव्रताः ४६.
तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः ४६.
स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम् ४६.
भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः ४६.
शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा ४६.
व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु ४६.
किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः ४६.
भुक्त्वा पुण्यफलं याति नरकं संशयः ४६.
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ४६.
पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि ४६.
पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि ४६.
पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत् ४६.
इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः ४६.
योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति ४६.
नमस्तुभ्यमबालाय बालरूपाय धीमते ४६.
बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा ४६.
येन मे जन्मसंदेहा नाशिता लीलयैव च ४६.
महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः ४६.
वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः ४६.
व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः ४६.
स्वयं चातिदुराचारः पापिनामपि पापराट् ४६.
असत्यभाषी दम्भीच सदा धर्मध्वजी खलः ४६.