जीवात्मसंज्ञान्स्वीयांशान्व्यभजत्परमेश्वरः ४६.
निःसरंति यथा लोहात्तप्तल्लिंगात्स्फुलिंगकाः ४६.
इंद्रियाणां सात्त्विकाच्च त्रिगुणानि च तान्यपि ४६.
रजस्तमश्च शोध्यंते सत्त्वेनैव मुमुक्षुभिः ४६.
अहंकारं च संसेव्य सात्त्विकीं सिद्धिमश्नुते ४६.
सात्त्विकाः सर्वदा सेव्याः संसारविजिगीषुभिः ४६.
सास्त्राभ्यासस्ततो ज्ञानं शौचमिंद्रियनिग्रहः ४६.
अन्यायेन धनादानं तंद्री नास्तिक्यमेव च ४६.
तस्माद्बुद्धिमुकैस्त्वतैः सात्त्विकैर्देवतां भजेत् ४६.
बुद्ध्याद्यैरेव मुक्तिः स्यादेतैरेव च यातना॥ ४६.
अमीषां चाप्य भावे वै न किंचिदुपपद्यते ४६.
तथा रजस्तमश्चैव संशोध्ये सात्त्विकैर्गुणैः ४६.
सुखिनो दुःखिनश्चैव प्राणिनः शास्त्रदर्शिनः ४६.
व्यभजच्चतुरा शीतिलक्षास्ता जीवयोनयः ४६.
ईश्वरांशाश्च ते सर्वे मोहिताः प्राकृतैर्गुणैः ४६.
अन्नानां पयसां चापि जीवानां चाथ श्रेयसे ४६.
एवमेतत्किं तु भूयः प्रक्ष्याम्येतन्महामते ४६.
स्वभक्तांस्तान्न दुःखेभ्यः कस्माद्रक्षंति मानवान् ४६.
इति मे मुह्यते बुद्धिस्त्वं वा किं बाल मन्यसे॥ ४६.
अशुचिश्च शुचिश्चापि देवभक्तो द्विधा स्मृतः ४६.
अशुचिर्देवताश्चैव यदा पूजयते नरः ४६.
विमूढश्चाप्टयकार्याणि तानि तानि निषेवते शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्॥ ४६.
तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते ४६.
सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम् ४६.
सीतापहारमापेदे रामोऽन्यो मुच्यते कथम् ४६.
इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम् ४६.
मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः ४६.
बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना ४६.
ये तप्यंते गतैः पापैः शुचयो देवताव्रताः ४६.
तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः ४६.