सोऽप्यन्यदिच्छते चेच्च कोऽन्यस्तस्मादचेतनः ४६.
दिवसे दिवसे मूढमावशंति न पंडितम् ४६.
मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः ४६.
श्रुतिस्मृत्यविरुद्धा सा बुद्धिस्त्वय्यस्ति निर्मला ४६.
शारीरमानसैर्दुःखैर्न सीदंति भवद्विधाः ४६.
आपत्सु च न मुह्यंति नराः पंडितबुद्धयः ४६.
तयोर्व्याससमासाभ्यां शमोपायमिमं श्रृणु ४६.
चतुर्भिः कारणैर्दुःखं शीरीरं मानसं च यत् ४६.
द्विप्रकारं महाकष्टं द्वयोरेतदुदाहृतम् ४६.
अयःपिंडेन तप्तेन कुंभसंस्थमिवोदकम् ४६.
व्याधेराधेश्च प्रशमः क्रियायोगद्वयेन तु ४६.
प्रशांते मानसे ह्यस्य शारीरमुपशाम्ति ४६.
स्नेहाच्च सज्जनो नित्यं जन्तुर्दुःखमुपैति च ४६.
शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते॥ ४६.
स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा ४६.
त्यागी तस्मान्न दुःखी स्यान्नर्वैरो निरवग्रहः ४६.
तस्मात्स्नेहं न लिप्सेन मित्रेभ्यो धनसंचयात् ४६.
ज्ञानान्वितेषु सिद्धेषु शास्त्रूज्ञेषु कृतात्मसु ४६.
रागाभिभूतः पुरुषः कामेन परिकृष्यते ४६.
तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी मता ४६.
या दुस्त्यजा दुर्मतिभिर्या न जीर्यतः ४६.
अनाद्यंता तु सा तृष्णा ह्यंतर्देहगता नृणाम् ४६.
यथैवैधः समुत्थेन वह्निना नाशमृच्छति ४६.
तस्माल्लोभो न कर्तव्यः शरीरे चात्मबंधुषु ४६.
अहो बाल न बालस्त्वं मतो मे त्वां नमाम्यहम् ४६.
कामक्रोधावहंकारमिंद्रियाणि च मानवाः ४६.
अहमेष ममेदं च कार्यमीदृशकस्त्वहम् ४६.
परिहार्यः य चेत्तं च विनोन्मत्तः प्रकीर्यते ४६.
कथं स्वर्गो मुमुक्षा वा साध्यते दृषदा यथा ४६.
बाह्यानामांतराणां वा विना तं तृणवद्विदुः ४६.