आकाशे ददृशे नातिदूरे किमपि निर्मलम्
यद्वा मृणालं तत्सिंधौ वियत्यस्यां कुतस्तु सः
अबोधि केतकीबर्हमिति राजीवजन्मना
हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम्
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा
अचिंतयत्पद्मसूतिरत्यंतं विहताशयः
अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः 1.3.2.12.
अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः प्रध्वंसंत इवांगानि पतामीवाहमप्यधः
किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः
अहंकारमदग्रंथिरयं त्रुटतु चित्ततः
यदेष रोदःकुहरपरिणाहाधिकोद्यमः
तदस्य तेजसां राशेर्नाहं नारायणोऽथवा
इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये
प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति
केतकच्छद एवासं सचैतन्यः शिवाज्ञया
भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम्
इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः 1.3.2.12.
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः
चतुर्युगायुतैर्यातं ततो निपततो मम
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः
ब्रह्मोवाच ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम्
ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम्
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् 1.3.2.13.
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम्
तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः