नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम् ४५.
आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा ४५.
मोहजालस्य यो योनिर्मूढैरिह समागमः ४५.
तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः ४५.
न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः ४५.
तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते ४५.
धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः ४५.
मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः॥ ४५.
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ४५.
इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव ४५.
बहूदकस्य कुंडस्य तीरस्थं लिंगमुत्तमम् ४६.
प्रणम्य चाग्रतस्तस्थौ प्रबद्धकरसंपुटः ४६.
स्रष्टारमस्य जगतश्चेत्पश्यामि सदाशिवम् ४६.
अपूर्यमाणं तव किं जगत्संसृजनं विना ४६.
सचेतनेन शुद्धेन रागादिरहितेन च ४६.
निर्वैरेण समेनाथ सुखदुःखभवाभवैः ४६.
कांश्चित्स्वर्गेथ नरके पातयंस्त्वं सदाशिव ४६.
इष्टैः पुत्रादिभिर्नाथ वियुक्ता मानवा ह्यमी ४६.
अतीव नोचितं सर्वमेतदीश्वर सर्वथा ४६.
एवंविधेन संसारचारित्रेण विमोहिताः ४६.
मरणांतमेव यास्यामि स्थास्ये संचिंतयन्नदः ४६.
ततश्चतुर्थे दिवसे बहूकतटे शुभे ४६.
कृशोतीव गलत्कुष्ठी प्रमुह्यंश्च पदेपेद ४६.
अहो सुरूपसर्वांग कस्माद्दुःखी भवानपि ४६.
श्रुत्वा तत्कारणं सर्वं बालो दीनमना ब्रवीत् ४६.
संपूर्णेंद्रियगात्रा यन्मर्तुमिच्छंति वै वृथा ४६.
तदहो भारतं खंडं सत्यायुषि त्यजेद्धि कः ४६.
अशक्तश्चलितुं वापि मर्तुमिच्छामि नापि च ४६.
संतोषोऽप्युचितस्तुभ्यं देहं यस्य दृढं त्विदम् ४६.
क्षणेक्षणे च तत्कुर्यां भुज्यते यद्युगेयुगे ४६.