स्वनामकानि चिह्नानि तेषां लिंगानि संति च ४५.
प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम् ४५.
विष्णुनापि निहत्याजौ रावणं पयसांनिधेः ४५.
वृत्रं हत्वा पुरा शक्रो महेंद्रे स्थाप्य शंकरम् ४५.
स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ४५.
काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ ४५.
अस्मिन्नेव स्तंभतीर्थे कुमारेणं गुहो विभुः ४५.
एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा ४५.
पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः ४५.
यच्च ब्रवीषि गीर्वाणा न संति सन्ति चेत्कुतः ४५.
रंकवत्किं स्म ते देवा याचंतां त्वां कुलत्थवत् ४५.
स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते ४५.
बदरीमंतरेणापि दृश्यंते कण्टका न हि ४५.
यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी ४५.
तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम् ४५.
सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम् ४५.
आदावाडंबरेणैव ध्रुवतोऽज्ञानमेव मे ४५.
मायाविनां हि ब्रुवतां वाक्यं चांडबरावृतम् ४५.
आदौ मध्ये तथा चांते येषां वाक्यमदोषवत् ४५.
त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः ४५.
नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम् ४५.
आपो वस्त्रं तिलास्तैलं गंधो वा स यथा तथा ४५.
मोहजालस्य यो योनिर्मूढैरिह समागमः ४५.
तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः ४५.
न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः ४५.
तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते ४५.
धर्माचारात्प्रहीयंते न च सिध्यंति मानवाः ४५.
मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः॥ ४५.
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ४५.
इतीरयित्वा वचनं महात्मा स नंदभद्रः सहसा तदैव ४५.