सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ४५.
श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति ४५.
विशंका जायते तस्मिन्वाक्यं तदपि दोषवत् ४५.
सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि ४५.
सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम् ४५.
यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः ४५.
एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत ४५.
क्व देवाः संति मिथ्यैतद्दृश्यंते चेद्भवंत्यपि ४५.
पितॄनुद्दिश्य यच्छंति मम हासः प्रजायते ४५.
यत्त्विदं बहुधा मूढा वर्णयंति द्विजाधमाः ४५.
उत्पत्तिश्चापि भंगश्च विश्वस्यैतद्द्वयं मृषा ४५.
स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमंत्यमी ४५.
स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम् ४५.
स्वभावतः पर्वता भांति नित्यं स्वभावतो वारिधिरेष संस्थितः ४५.
यथा स्वभावेन भवंति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः ४५.
तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत् ४५.
मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत् ४५.
मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते ४५.
अबद्धा विहरंत्येते योनिरेषां सुदुर्लभा ४५.
बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः ४५.
यदेके स्थावराः कीटाः पतंगा मानुषादिकाः पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि॥ ४५.
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमंजसैः॥ ४५.
सत्यव्रतस्य नाकम्पन्नंदभद्रो महामनाः ४५.
यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः ४५.
वधबंधपरिक्लेशाः पुत्रदारादि पंचता ४५.
अयं साधुरहो कष्टं कष्टमस्य महाजनाः ४५.
दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे ४५.
यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः ४५.
यच्च ब्रवीषि पाषाणं मिथ्या लिंगं समर्चसि ४५.
ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः ४५.