वणिक्संपूजयामास त्रिकालं च कृतादरः ४५.
नाज्ञातं तस्य किंचिच्च यद्धर्मेषु प्रकीर्त्यते ४५.
कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः ४५.
विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः ४५.
निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय ४५.
परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम् ४५.
सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत् ४५.
अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम् ४५.
दोषमेनं विनिश्चित्य श्रृणु तं पांडुनन्दन ४५.
यजन्यज्ञैर्जगद्धंति स्वं चांधतमसं नयेत् ४५.
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ४५.
चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि ४५.
पशवो लकुटैर्हन्युर्यजमानं मृतं हताः ४५.
यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः ४५.
नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः ४५.
केचिच्छंसन्ति संन्यासं नन्दभद्रो न मन्यते ४५.
उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति ४५.
कस्यचिन्नैव कर्माणि शपते वा प्रशंसति ४५.
न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते ४५.
अभयः सर्वभूतेभ्यो यथांधबधिराकृतिः ४५.
कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन्॥ ४५.
विविच्य नंदभद्रस्तत्सारं मोक्षेषु जगृहे ४५.
यस्यां छिंदंति वृषणा वृषाणां चैव नासिकाम् ४५.
बहुदंशमयान्देशान्नयंति बहुकर्दमान् ४५.
मन्यंते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः ४५.
भूमिं भूमिशयांश्चैव हंति काष्ठमयोमुखम् ४५.
आदित्यश्चंद्रमा वायुः प्रभूत्यैव च तांस्तु यः ४५.
अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट् ४५.
एवंविधसहस्रैश्च युता दोषैः कृषिः सदा ४५.
धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः ४५.