त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः ४४.
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम् ४४.
क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत् ४४.
अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे ४४.
मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः ४४.
आर्द्रवाससमाहूय तथा चैवाप्युपोपितम् ४४.
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ४४.
पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः ४४.
लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः ४४.
नवेन कृतसूत्रेण कार्पासेन दृढं यथा ४४.
पिंडं हुताशसंतप्तं पंचाशत्पलिकं दृढम् ४४.
रक्तचंदनधूपाभ्यां रक्तपुष्पैस्तथैव च ४४.
मंत्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च ४४.
पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ४४.
जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् ४४.
अथवा शुद्धभावेषु शीतो भवमहाबल ४४.
परिक्रम्य शनैर्जह्याल्लोहपिंडं ततः क्षितौ ४४.
निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ४४.
पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः ४४.
कारयेदायसं पात्रं ताम्रं वा षोडशांगुलम् ४४.
पूरयेद्घृततैलाभ्यां पलैर्विशतिभिस्ततः ४४.
वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ४४.
शुद्धं ज्ञेयमसंदिग्धं विस्फोटादिविवर्जितम् ४४.
आयसं द्वादशपलं घटितं फालमुच्यते ४४.
वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ४४.
गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् ४४.
तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते ४४.
चौर्ये तु तंदुला देया न चान्यत्र कथंचन ४४.
प्रभाते कारिणे देया भक्षणाय न संशयः ४४.
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ४४.