क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति ४४.
सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे ४४.
स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् ४४.
अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम् ४४.
चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम् ४४.
तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् ४४.
पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा ४४.
तुलाधारधरः कार्यो रिपौ मित्रे च यः समः ४४.
ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके ४४.
एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् ४४.
इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत् ४४.
मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत् ४४.
ब्रह्मणस्त्वं सुता देवी तुलानाम्नेति कथ्यते ४४.
गुरुलाघवसंयोगात्तुला तेन निगद्यसे ४४.
भूय आरोपयेत्तं तु नरं तस्मिन्सपत्रकम् ४४.
हीयमानो न शुद्धः स्यादिति धर्मविदो विदुः ४४.
एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत् ४४.
अथातः संप्रवक्ष्यामि विषदिव्यं श्रृणुष्व मे॥ ४४.
द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा ४४.
यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः ४४.
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः ४४.
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम् ४४.
क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत् ४४.
अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे ४४.
मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः ४४.
आर्द्रवाससमाहूय तथा चैवाप्युपोपितम् ४४.
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ४४.
पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः ४४.
लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः ४४.
नवेन कृतसूत्रेण कार्पासेन दृढं यथा ४४.