मन्यंते वै पापकृतो न कश्चितपश्यतीति नः ४४.
आदित्यचंद्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ४४.
एवं तस्मादभिज्ञाय सत्यर्थशपथांश्चरेत् ४४.
इदं सत्यं वदामीति ब्रुवन्साक्षी भवान्यतः ४४.
अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः ४४.
मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम् ४४.
विप्रवर्ज्यं तथा केशं वर्णिनां दापयेन्नृपः ४४.
समभक्तं च देवानामादित्यस्यैव पाययेत् ४४.
स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम् ४४.
अतः परं महादिव्यविधानं श्रृणु यद्भवेत् ४४.
सशिरस्कंप्रदातव्यमिति ब्रह्मा पुराब्रवीत् ४४.
साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत् ४४.
वर्णिनां च तथा कालं तंदुलं मुखरोगिणाम्॥ ४४.
कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम् ४४.
न व्याधिमरके देशे शपथान्कोशमेव च ४४.
प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान् ४४.
विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कंटकाः ४४.
ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः ४४.
महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान् ४४.
श्रद्दध्यात्पार्थिवस्तेषां वचना देव भारत ४४.
क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति ४४.
सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे ४४.
स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् ४४.
अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम् ४४.
चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम् ४४.
तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् ४४.
पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा ४४.
तुलाधारधरः कार्यो रिपौ मित्रे च यः समः ४४.
ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके ४४.
एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् ४४.