स्वशरीरमालभेत् अनेन मंत्रेण सप्तवारानुच्चार्य स्थातव्यम् पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत् ४३.
यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः ४३.
ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः ४३.
जया च विजया चैव जयंती पापनाशनी ४३.
डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च ४३.
राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका ४३.
एभिः परिवृतो योऽसावधरोत्तरवासिभिः ४३.
अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन् ४३.
सहस्रकिरण वरद जीवनरूप ते नमः ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम् तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम्॥ ४३.
एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम् आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन इति क्षीरादिस्नपनम् ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम्॥ ४३.
ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते॥ ४३.
ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण अलंकारं गृहणेमं मया भक्त्या समर्पितम्॥ ४३.
एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात्॥ ४३.
ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते ४३.
ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात्॥ ४३.
ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः ४३.
ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे॥ ४३.
ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत् ४३.
य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा ४३.
अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति ४३.
अशक्तश्चेन्नित्यमेकमर्घ्यं दद्याद्दिवाकृते ४३.
अश्वमेधफलं प्राप्य सूर्यलोक मवाप्नुयात् ४३.
एवंविधस्त्वसौ देवो भट्टादित्योऽत्र तिष्ठति ४३.
दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम् ४३.
दिव्यप्राकारमिच्छामि श्रोतुं चाहं मुनीश्वर ४४.
शपषाः पोशघटकौ विषाग्न तप्तमाषकौ ४४.
असाक्षिकेषु चार्थेषु मिथो विवदमानयोः ४४.
अविदस्तत्त्वतः सत्यं शपथेनाभिलंघयेत् ४४.
जवनो नृपतिः क्षीणो मिथ्याशपथमाचरेत् ४४.
अंधः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत् ४४.