कामरूपभवं कुंडं वृक्षास्ते चापि भारत ४३.
माघमासस्य शुक्लायां सप्तम्यां स्त्री नरोऽपि वा ४३.
तस्यानंतं भवेत्पुण्यं रथं यश्च प्रपूजयेत् ४३.
ये च पश्यंति लोकास्ते धन्याः सर्वे न संशयः ४३.
भविष्यंति नरास्ते ये कारयंति रथोत्सवम् ४३.
भट्टादित्यस्य कुंडे च तत्फलं सप्तमीदिने कपिला गोशतस्यासौ दत्तस्य फलमश्नुते॥ ४३.
वासुदेवादयः सर्वे वदंत्येवं महामुने॥ ४३.
भास्करार्घं विना पातः कृतं सर्वं च निष्फलम् ४३.
यथा ब्रह्मादयो देवा यच्छंत्यर्घं महात्मने ४३.
प्रथमं तावत्प्रत्युषे उदिते सूर्ये शुचिर्भूत्वा गोमयकृतमंडलस्योपरि रक्तचंदनेन मंडलकं कृत्वा ततस्ताम्रपात्रे रक्तचंदनोदकश्वेतचंदनादिद्रव्यैः प्रपूरणं कृत्वा तन्मध्ये हेमाक्षतदूर्वादधिसर्पीषि परिक्षिप्य स्थापयेत्॥ ४३.
स्वशरीरमालभेत् अनेन मंत्रेण सप्तवारानुच्चार्य स्थातव्यम् पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत् ४३.
यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः ४३.
ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः ४३.
जया च विजया चैव जयंती पापनाशनी ४३.
डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च ४३.
राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका ४३.
एभिः परिवृतो योऽसावधरोत्तरवासिभिः ४३.
अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन् ४३.
सहस्रकिरण वरद जीवनरूप ते नमः ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम् तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम्॥ ४३.
एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम् आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन इति क्षीरादिस्नपनम् ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम्॥ ४३.
ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते॥ ४३.
ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण अलंकारं गृहणेमं मया भक्त्या समर्पितम्॥ ४३.
एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात्॥ ४३.
ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते ४३.
ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात्॥ ४३.
ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः ४३.
ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे॥ ४३.
ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत् ४३.
य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा ४३.
अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति ४३.