तया च कलया भानो सदात्र स्थातुमर्हसि ४३.
अस्थापयमहं सूर्यं भट्टादित्याभिधानकम् ४३.
ततः संपूज्य तं पुष्पैः कृतावेशमहं रविम् ४३.
सर्ववेदरहस्यैश्च नामभिश्च शताष्टभिः ४३.
संजीवनो जयो जीवो जीवनाथो जगत्पतिः ४३.
भूतांतकरणो देवः कमलानन्दनन्दनः ४३.
धर्मप्रियोचितात्मा च सविता वायुवाहनः ४३.
दिनकृद्दिनहृन्मौनी सुरथो रथिनांवरः ४३.
आकाशतिलको धाता संविभागी मनोहरः ४३.
आलोककृल्लोकनाथो लोकपालनमस्कृतः ४३.
कीर्तिकीर्तिकरो नित्यो रोचिष्णुः कल्मषापहः ४३.
कृतकृत्यः सुसंगश्च बहुज्ञो वचसां पतिः ४३.
प्रणतार्तिहरोऽरोग आयुष्यमान्सुखदः सुखी ४३.
शुचिः पूर्णो मोक्षमार्गदाता भोक्ता महेश्वरः ४३.
जगत्पिता धूमकेतुर्विधूतो ध्वांतहा गुरुः ४३.
सामप्रियो लोकबन्धुर्नैकरूपो युगादिकृत् ४३.
मयैवं संस्तुतो भानुर्नाम्नामष्टशतेन च ४३.
इत्येवं संस्तवात्प्रीतो भास्करो मामवोचत ४३.
यो मामत्र महाभक्त्या भट्टादित्यं प्रपूजयेत् ४३.
मामुद्दिश्य च यो विप्रः स्वल्पं वा यदि वा बहु ४३.
रक्तोत्पलैश्च कह्लारैः केसरैः करवीरकैः ४३.
सप्तम्यामथ षष्ठ्यां वा येऽर्चयिष्यंति मामिह ४३.
दर्शनान्मम भक्त्या च नाशो व्याधिदरिद्रयोः ४३.
अभक्तिं यश्च कर्ता मे स गच्छेन्निश्चिंतं क्षयम् ४३.
त्रिकालमेककालं वा पठतः श्रृणुयत्फलम् ४३.
भवेद्वर्षशतायुश्च सर्वरोगविवर्जितः ४३.
अक्षयं स्वल्पमप्यन्नं भवेत्तस्योपसाधितम् ४३.
तस्मादेतत्त्वया जाप्यं परं स्वस्त्ययनं महत् ४३.
कामरूपकला यत्र तत्र कुंडं वने भवेत् ४३.
ततो भास्करवाक्येन सिद्धेशस्य च सव्यतः ४३.