अतलं वितलं चैष सुतलं नितलं तथा
ददर्श सप्त पातालानपि वारिजलोचनः
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः
इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः
श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः 1.3.2.11.
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः
श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः
कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः
रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया
नावैक्षि यन्मया मूलममुष्य महसां निधेः
अमुष्य महसां राशेः प्रागभूद्यत्र संभवः
स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात्
मायामरालो ददृशे तेजःस्तंभस्यपार्श्वतः
प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम्
तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम्
मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः
यथायथा चोत्पपात सुदूरं श्रमितच्छदः
अतीत्य मरुतां स्कंधान्सप्त संप्राप्तविस्मयः
कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः 1.3.2.12.
अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः
अतिसंधित्सतो विष्णुं कस्सहायो भविष्यति
छद्मना वा तिरस्कुर्यान्माना हि महतां धनम्