ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः ४२.
इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह ४२.
ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः ४२.
पुराहमभवं शूद्रो भीतः संसारदोषतः ४२.
स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम् ४२.
तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात् ४२.
इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः ४२.
ततो महीनगरकाख्ये कोटितीर्थतलस्थितम् ४२.
गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः ४२.
यन्मायामोहितधियो भ्रमामः कर्मसागरे ४२.
आकर्ण्यासनपूजाद्यैः पूजयामासुरंग तम् ४२.
प्रददुर्दक्षिणां सर्वां हरिमेधाः सुतामपि ४२.
वन्दयित्वा स्वजननीं पुत्रानुत्पाद्य चामलान् ४२.
वासुदेवानुध्यानेन मोक्षं पश्चादुपागतः ४२.
योर्ययेत्पूजयेत्स्तौति सर्वं तस्याक्षयं विदुः ४२.
तादृशं लभते मर्त्यो वासुदेवप्रसादतः॥ ४२.
ततोऽहं पार्थ भूयोऽपि जनानुग्रहकाम्यया ४३.
सर्वेषां प्राणिनां यस्मादुडुपो भगवान्रविः ४३.
ये स्मरंति रविं भक्त्या कीर्तयंति च ये नराः ४३.
सूर्यभक्तिपरा ये च नित्यं तद्गतमानसाः ४३.
भवनानि मनोज्ञानि विविधाभरणाः स्त्रियः ४३.
दुर्लभा भक्तिः सूर्ये वा दुर्लभं तस्य चार्चनम् ४३.
नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम् ४३.
इत्यहं हृदि संचिंत्य माहात्म्यं रविजं महत् ४३.
जपेन सुविशुद्धेन च्छन्दसां वायुभोजनः ४३.
तेजसा दुर्दृशो भास्वान्प्रत्यक्षः समजायत॥ ४३.
तमहं प्रांजलिर्भूत्वा नमस्कृत्य रविं प्रभुम् ४३.
तुष्टो मामाह वरदो देवर्षे सुचिरं त्वया ४३.
इत्युक्तोऽहं लोकनाथं प्रांजलिः प्रास्तुवं वचः ४३.
ततस्ते कामरूपे या कला नाथ प्रवर्तते ४३.