मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि ४२.
स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ४२.
इत्थं स्तुतः स भगवानैतरेयेण भारत ४२.
वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते ४२.
एष एव वरो नाथमम नित्यमभीप्सितः ४२.
मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी ४२.
यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम् ४२.
यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति ४२.
एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति ४२.
सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा ४२.
यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः ४२.
त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया ४२.
यज यज्ञैरवाप्यैव दारान्नन्दय मातरम् ४२.
बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च ४२.
बोद्धव्यमथ मंतव्यमहंता शब्द एव च ४२.
विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः ४२.
गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि ४२.
शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते ४२.
मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः ४२.
उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि ४२.
ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः ४२.
इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह ४२.
ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः ४२.
पुराहमभवं शूद्रो भीतः संसारदोषतः ४२.
स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम् ४२.
तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात् ४२.
इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः ४२.
ततो महीनगरकाख्ये कोटितीर्थतलस्थितम् ४२.
गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः ४२.
यन्मायामोहितधियो भ्रमामः कर्मसागरे ४२.