क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च ४२.
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ४२.
ये भूतले ये दिवि चांतरिक्षे रसातले प्राणिगणाश्च केचित् ४२.
अज्ञानिनो ज्ञानविदो भवंतु प्रशान्तिभाजः सततोग्रचित्ताः ४२.
श्रृण्वंति ये मे स्तुवतस्तथान्ये पश्यंति ये मामिदमीरयंतम् ४२.
ये चापि मूका विकलेंद्रियत्वात्पठंति नो नैव विलोकयंति ४२.
नश्यंतु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः ४२.
संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ४२.
पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा ४२.
यथा हि वा वासुदेवेति प्रोक्ते संकीर्त्तने विष्णुभक्तस्य वापि ४२.
मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि ४२.
स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ४२.
इत्थं स्तुतः स भगवानैतरेयेण भारत ४२.
वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते ४२.
एष एव वरो नाथमम नित्यमभीप्सितः ४२.
मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी ४२.
यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम् ४२.
यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति ४२.
एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति ४२.
सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा ४२.
यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः ४२.
त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया ४२.
यज यज्ञैरवाप्यैव दारान्नन्दय मातरम् ४२.
बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च ४२.
बोद्धव्यमथ मंतव्यमहंता शब्द एव च ४२.
विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः ४२.
गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि ४२.
शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते ४२.
मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः ४२.
उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि ४२.