मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम ४२.
एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम् ४२.
न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु ४२.
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ ४२.
एवंविधेन पुत्रेण मा मातर्दुःखिनी भव ४२.
इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत् ४२.
लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम् ४२.
प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च ४२.
जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः ४२.
मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे॥ ४२.
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ४२.
नमो विज्ञानमात्राय परमानंदमूर्तये ४२.
आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः ४२.
वचस्युपरते प्राप्यो य एको मनसा सह ४२.
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ४२.
यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः ४२.
देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु ४२.
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ४२.
हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम् ४२.
ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते॥ ४२.
तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे ४२.
जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम् ४२.
संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक् ४२.
न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ४२.
शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु ४२.
मन्ये धरित्रीपरमाणुसंख्यामुपैति पित्रोर्गणना न मह्यम् ४२.
त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि ४२.
सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो ४२.
परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ४२.
प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ४२.