आत्मतृप्ता यतो यांति शांता दांताः परात्परम् ४२.
सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः ४२.
ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः ४२.
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ४२.
एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति ४२.
एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि ४२.
एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि ४२.
ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम् ४२.
मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी ४२.
मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम ४२.
मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम ४२.
एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम् ४२.
न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु ४२.
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥ ४२.
एवंविधेन पुत्रेण मा मातर्दुःखिनी भव ४२.
इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत् ४२.
लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम् ४२.
प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च ४२.
जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः ४२.
मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे॥ ४२.
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ४२.
नमो विज्ञानमात्राय परमानंदमूर्तये ४२.
आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः ४२.
वचस्युपरते प्राप्यो य एको मनसा सह ४२.
यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ४२.
यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः ४२.
देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु ४२.
चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ४२.
हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम् ४२.
ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते॥ ४२.