जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः
क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन्
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम्
विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः
आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः
मधुद्विषा च स महान्मंडूकोऽपि विलोकितः 1.3.2.11.
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः
अतलं वितलं चैष सुतलं नितलं तथा
ददर्श सप्त पातालानपि वारिजलोचनः
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः
इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः
श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः 1.3.2.11.
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः
श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः
कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः
रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया
नावैक्षि यन्मया मूलममुष्य महसां निधेः
अमुष्य महसां राशेः प्रागभूद्यत्र संभवः
स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले
द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः
स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात्