अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः ४२.
दुष्टानां घातनं लोके पाशेन च निबन्धनम् ४२.
अकस्माज्जन्ममरणं कीटादीनां तथाविधम् ४२.
क्षुत्तृट्क्लेशेन महता संत्रस्ताश्च सदा मृगाः ४२.
क्षुत्तृट्छीतादिदमनं वधबन्धनताडनम् ४२.
वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम् ४२.
आत्मयूथवियोगश्च वने च नयनादिकम् ४२.
अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः ४२.
अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम् ४२.
निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ४२.
तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति ४२.
दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात् ४२.
ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात् ४२.
राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः ४२.
अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम् ४२.
मोहांधकारतिमिरं लोभव्यालसरीसृपम् ४२.
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ४२.
न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन॥ ४२.
तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त ४२.
पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित् ४२.
सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्॥ ४२.
सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति ४२.
सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम् ४२.
तेजश्चाभयदानत्वमद्रोहः कौशलं तथा ४२.
इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः ४२.
निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः ४२.
पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा ४२.
षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च ४२.
ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च॥ ४२.
धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी ४२.