मण्डूक इव सर्पेण गीर्यते मृत्युना जनः ४२.
निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता ४२.
संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः ४२.
विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः ४२.
चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि ४२.
म्रियते पश्यतामेव गले घुर्घुररावकृत् ४२.
संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम् ४२.
क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् ४२.
न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् ४२.
निसर्गात्सर्वभूतानामिति दुःखपरंपरा ४२.
स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति ४२.
तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः ४२.
सर्वमाभरणं भारं सर्वमालेपनं मम ४२.
इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः ४२.
प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः ४२.
उपर्युपरि देवानामन्योन्यातिशये स्थितम् ४२.
न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः ४२.
पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः ४२.
तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते ४२.
कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम् ४२.
अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः ४२.
दुष्टानां घातनं लोके पाशेन च निबन्धनम् ४२.
अकस्माज्जन्ममरणं कीटादीनां तथाविधम् ४२.
क्षुत्तृट्क्लेशेन महता संत्रस्ताश्च सदा मृगाः ४२.
क्षुत्तृट्छीतादिदमनं वधबन्धनताडनम् ४२.
वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम् ४२.
आत्मयूथवियोगश्च वने च नयनादिकम् ४२.
अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः ४२.
अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम् ४२.
निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ४२.