तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन् ४२.
कौमारे कर्णवेधेन मातापित्रोर्विताडनैः ४२.
प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात् ४२.
ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते ४२.
न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः ४२.
नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च ४२.
सन्मानमपमानेन वियोगेनेष्टसंगमः ४२.
वलीपलितकायेन शिथिलीकृतविग्रहः ४२.
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा ४२.
जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः ४२.
धर्ममर्थं च कामं च मोक्षं च नातुरो यतः ४२.
वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ४२.
तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ४२.
तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ४२.
तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः ४२.
जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ४२.
विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ४२.
स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम् ४२.
शक्नुवंति परित्रातुं नरं कालेन पीडितम् ४२.
कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः ४२.
नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम् ४२.
आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति ४२.
जनाः शतायुषः पंचभवंति न भवन्ति वा ४२.
परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम् ४२.
तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी ४२.
वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः ४२.
ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम् ४२.
जायते योनिकोटीषु मृतः कर्मवशात्पुनः ४२.
मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः ४२.
यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित् ४२.