स निष्क्रामति संसारे दृढग्राही स तिष्ठति ४२.
पुंसामज्ञातदोषेण नानाकर्मवशेन च ४२.
यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ४२.
गर्भोदकेन सिक्तांगस्तथाऽऽस्ते व्याकुलः पुमान् ४२.
गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ४२.
यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत् ४२.
चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ४२.
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ४२.
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ४२.
अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम् ४२.
गभात्कोटिगुणं दुःखं जायमानस्य जायते ४२.
स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत् ४२.
स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ४२.
रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते ४२.
न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते ४२.
सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ४२.
गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः ४२.
ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके ४२.
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ४२.
दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा ४२.
तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन् ४२.
कौमारे कर्णवेधेन मातापित्रोर्विताडनैः ४२.
प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात् ४२.
ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते ४२.
न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः ४२.
नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च ४२.
सन्मानमपमानेन वियोगेनेष्टसंगमः ४२.
वलीपलितकायेन शिथिलीकृतविग्रहः ४२.
स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा ४२.
जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः ४२.