जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम् ४२.
दार्यमाणेन मनसा तनयं वाक्यमब्रवीत् ४२.
नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम् ४२.
पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः ४२.
तदहं पुत्र दुर्भाग्या महीसागरसंगमे त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम्॥ ४२.
इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः॥ ४२.
ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत् ४२.
अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि ४२.
मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि ४२.
प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम् ४२.
एवंविधं हि मानुऽयमा गर्भादिति कष्टदम् अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते॥ ४२.
रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने ४२.
वदनैकमहाद्वारे षड्गवाक्षवितभूषिते ४२.
नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते ४२.
गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च ४२.
अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते ४२.
स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव ४२.
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ४२.
स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः ४२.
कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः ४२.
स्वदेहाशुचिगंधेन न विरज्यति यो नरः ४२.
गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम् ४२.
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ४२.
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ४२.
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ४२.
भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ४२.
अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः ४२.
भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति ४२.
अविद्यारागविण्मूत्रलेपगंधविशोधनम् ४२.
त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम् ४२.