एवं मयाराध्यमानो गरुडं हरिरास्थितः ४२.
तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः ४२.
श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो ४२.
तद्रूपस्य कलामेकां स्थापयात्र जनार्दन ४२.
एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः ४२.
तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि ४२.
मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया ४२.
वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः ४२.
स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु ४२.
उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः ४२.
दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः ४२.
मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः ४२.
कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः ४२.
अहंकारविहीनं च स्नानं धूपानुपनम् ४२.
यामेयामे महाभक्त्या कृतारार्तिकसंयुतम् ४२.
पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम् ४२.
तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम् ४२.
पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम् ४२.
सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि॥ ४२.
अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः ४२.
ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने ४२.
अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत्॥ ४२.
मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः॥ ४२.
तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता ४२.
स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम् ४२.
न श्रृणोति न वक्त्येव मनसापि च किंचन ४२.
ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः ४२.
ततो निश्चित्य मनसा जडोयमिति भारत ४२.
पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे ४२.
यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः ४२.