कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम् ४१.
महाकालः समालिंग्य ताञ्छिवाय निवेदयेत् ४१.
दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन॥ ४१.
ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः॥ ४१.
ततो मया स्थापिते च स्थाने कालांतरेण ह ४२.
वासुदेवविहीनं हि तीर्थमेतन्न रोचते ४२.
यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे ४२.
तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम् ४२.
इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः ४२.
अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च ४२.
एवं मयाराध्यमानो गरुडं हरिरास्थितः ४२.
तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः ४२.
श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो ४२.
तद्रूपस्य कलामेकां स्थापयात्र जनार्दन ४२.
एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः ४२.
तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि ४२.
मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया ४२.
वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः ४२.
स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु ४२.
उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः ४२.
दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः ४२.
मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः ४२.
कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः ४२.
अहंकारविहीनं च स्नानं धूपानुपनम् ४२.
यामेयामे महाभक्त्या कृतारार्तिकसंयुतम् ४२.
पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम् ४२.
तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम् ४२.
पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम् ४२.
सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि॥ ४२.
अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः ४२.