मही कुंकुमलिप्तेव दिशः सिंदूरिता इव
ब्रह्मांडकर्परमभूत्तन्महः पूरितांतरम्
एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च
तेजोलिंगं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ
किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम्
किं वा कल्पांतसुलभप्रादुर्भावाः प्रभाकराः
आहोस्विन्मेघ संघर्षाद्वितता व्योममध्यतः
प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम्
एष उद्दीप्यमानोऽपि संतापाय न कल्पते
एतस्य कांतिसंक्रांत्या जगदेव न केवलम् 1.3.2.10.
कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः
कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः
तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः
इति चिंताभराक्रांतौ तेजःस्तंभावलोकनात्
अभाषत च गोविंदः सुतरामेव गर्वितम्
सत्यमेव परीक्षायै निकषः समुपस्थितः
अमुष्य तेजसां राशेरपरिच्छेद्यसंपदः
यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयंभुवः
तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः
भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः
जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः
क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन्
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम्
विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः
आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः
मधुद्विषा च स महान्मंडूकोऽपि विलोकितः 1.3.2.11.
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः