पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ ४१.
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्॥ ४१.
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः ४१.
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ४१.
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति ४१.
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः ४१.
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि ४१.
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः ४१.
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः ४१.
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च ४१.
रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः ४१.
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ४१.
नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः ४१.
न च वागङ्गचपलो न चाशिष्टस्य गोचरः ४१.
उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः ४१.
अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः ४१.
न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च ४१.
नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत् ४१.
खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा ४१.
कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम् ४१.
शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा ४१.
स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत् ४१.
मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः ४१.
नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः ४१.
दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन् ४१.
आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम् ४१.
शिरस्यगस्त्यमाधाय तथैव च पुरंदरम् ४१.
नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ४१.
पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति ४१.
अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन् ४१.