ततो जलाधारमुखे चण्डीश्वराय नमः ४१.
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः ४१.
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया ४१.
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत् ४१.
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः ४१.
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत् ४१.
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि ४१.
य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः ४१.
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम् ४१.
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि ४१.
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत् ४१.
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम् ४१.
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते ४१.
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ४१.
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत् ४१.
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः ४१.
उपासीत यथान्यायं नैनां जह्यादनापदि ४१.
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव ४१.
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः॥ ४१.
जलमग्निं च निनयेद्यगपन्न विचक्षणः॥ ४१.
पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ ४१.
विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्॥ ४१.
आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः ४१.
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ४१.
प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति ४१.
भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः ४१.
न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि ४१.
उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः ४१.
अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः ४१.
नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च ४१.