तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम् ४१.
वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः ४१.
पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम् ४१.
ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत् ४१.
अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम् ४१.
प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः इति द्वादशाक्षरो मूलमंत्रः॥ ४१.
वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च ४१.
गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत्॥ ४१.
विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत् ४१.
आग्नेयपादे नैर्ऋतके वायव्ये ईशानपादे पूर्वपादे दक्षिणे पश्चिमे उत्तरे ॐअनैश्वर्याय नमः ॐपद्माय नमः ॐअर्कमण्डला नमः ॐवह्निमण्डला नमः ॐपरमप्रकृत्यै देव्यै नमः ४१.
ततो जलाधारमुखे चण्डीश्वराय नमः ४१.
पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः ४१.
अर्घादनंतरं शक्तः पूजयेद्वसुपूजया ४१.
घण्टां च वादयेत्तत्र ततो नीराजनं चरेत् ४१.
नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः ४१.
नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत् ४१.
स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि ४१.
य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः ४१.
सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम् ४१.
पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि ४१.
किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत् ४१.
आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम् ४१.
भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते ४१.
त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ४१.
ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत् ४१.
सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः ४१.
उपासीत यथान्यायं नैनां जह्यादनापदि ४१.
असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव ४१.
देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः॥ ४१.
जलमग्निं च निनयेद्यगपन्न विचक्षणः॥ ४१.