यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ४१.
यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति ४१.
नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ४१.
दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च ४१.
तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः ४१.
हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः ४१.
सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि ४१.
यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ४१.
आलस्योपहतो राजा व्यसनी नरकं व्रजेत् ४१.
यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम् ४१.
एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम् ४१.
तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत् ४१.
नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा ४१.
संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि ४१.
प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत् ४१.
आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा ४१.
आविकं परिदध्याच्च ततो वासः सितं च वा ४१.
उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम् ४१.
पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः ४१.
प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत् ४१.
येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम् ४१.
रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः ४१.
गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै ४१.
निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः ४१.
क्षालिताः पूरिता नीताः षडक्षरजपेन च ४१.
अष्टादशापि चतुरस्ततोन्यूनं न कारयेत् ४१.
एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात् ४१.
सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात्॥ ४१.
ॐगं गणपतये नमः ॐगं गुरुभ्यो नमः ॐकौं कुलदेव्यै नमः ॐमहाकालाय नमः ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः ४१.
दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम् ४१.